Guru Shakti

Shri Nikhileshwarand Kavacham


Shri Nikhileshwarand Kavacham
श्री निखिलेश्वरानंद कवचम 

 
This is one of the most powerful kavach or protection for the disciples of Gurudev Nikhileshwarand or Dr. Narayan Dutt Shrimali. Though any sadhak can use this kavach for protection as well as for fulfillment of wishes. The Kavach is so powerful that it not only removes the obstacles from nine planets but also remove any evil entities like ghosts, jinns or yakshas. It has been said that whosoever recites this kavach before sunrise attains the highest destination of spiritual upliftment and destination which is called " Siddashram".

ॐ अस्य श्री निखिलेश्वरानंद कवचस्य ,श्री मुदगल ऋषि: .अनुष्टुप छंद :
श्री गुरुदेवो निखिलेश्वरानंद परमात्मा देवता .
"महोस्त्वं रूपं च " इति बीजम.
"प्रबुद्धम निर्नित्यमिति " कीलकम .
"अथौ नैत्रं पूर्ण " इति कवचम .
श्री भगवतो निखिलेश्वरानंद प्रीत्यर्थं पाठे विनियोग :.

कर न्यास : 
श्री सर्वात्मने निखिलेश्वराय - अन्गुष्ठाभ्यां नमः . 
श्री मंत्रात्मने पूर्णेश्वराय - तर्जनीभ्यां नमः . 
श्री तंत्रात्मने वागीश्वराय - मध्यमाभ्यां नमः . 
श्री यंत्रात्मने योगीश्वराय - अनामिकाभ्यां नमः . 
श्री शिष्य प्राणात्मने - कनिष्ठिकाभ्यां नमः।
सच्चिदानंद प्रियाय - कर तल कर पृष्ठाभ्यां नमः .

अंग न्यास : 
श्रीं शेश्वर: ह्रदयाय नम : .
ह्रीं शेश्वर: शिरसे स्वाहा .
क्लीं शेश्वर: शिखायै वषट .
तंप् सेश्वर : कवचाय हुम .
तापे शेश्वर: नेत्रयाय वौषट .
एकेश्वर: करतल कर पृष्ठाभ्यां अस्त्राय फट .

रक्षात्मक देह कवचम 
शिरः सिद्धेश्वरः पातु ललाटं च परात्परः |
नेत्रे निखिलेश्वरानन्द नासिका नरकान्तकः || १ ||

कर्णौ कालात्मकः पातु मुखं मन्त्रेश्वरस्तथा |
कण्ठं रक्षतु वागीशः भुजौ च भुवनेश्वरः || २ ||

स्कन्धौ कामेश्वरः पातु हृदयं ब्रह्मवर्चसः |
नाभिं नारायणो रक्षेत् उरुं ऊर्जस्वलोऽपि वै || ३ ||

जानुनि सच्चिदानन्दः पातु पादौ शिवात्मकः |
गुह्यं लयात्मकः पायात् चित्तंचिन्तापहारकः || ४ ||

मदनेशः मनः पातु पृष्ठं पूर्णप्रदायकः |
पूर्वं रक्षतु तंत्रेशः यंत्रेशः वारुणीँ तथा || ५ ||

उत्तरं श्रीधरः रक्षेत् दक्षिणं दक्षिणेश्वर |
पातालं पातु सर्वज्ञः ऊर्ध्वं मे प्राण संज्ञकः || ६ ||

कवचेनावृतो यस्तु यत्र कुत्रापित गच्छति |
तत्र सर्वत्र लाभः स्यात् किंचिदत्र न संशयः || ७ ||

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं |
धनवान् बलवान् लोके जायते समुपासकः || ८ ||

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः |
नश्यन्ति सर्वविघ्नानि दर्शानात् कवचावृतम् || ९ ||

य इदं कवचं पुण्यं प्रातः पठति नित्यशः |
सिद्धाश्रम पदारूढः ब्रह्मभावेन भूयते || १० ||




Print Friendly and PDF