Guru Shakti

Saraswati Kavacham


श्रीसरस्वतीकवचं ब्रह्मवैवर्तान्तर्गतम् ॥

Saraswati is the Goddess of knowledge, music, arts and science. She is the part of the Trinity of Saraswati, Lakshmi and Parvati. She is the Goddess of learning,  memory and mind power. Saraswati is the Goddess of Knowledge. She represents the union of power and intelligence from which organized creation arises. Saraswati posseses all the learnings of the the Vedas, scriptures, dancing, musical power and poetry. She revealed language and writing to man. Her origin is the lost Vedic river Saraswati. This is the source of her profound connection to fluidity in any aspect (water, speech, thought, etc.). She is wisdom, fortune, intelligence, nourishment, brilliance, contentment, splendour and devotion. This mantra is dedicated to this Beautiful Goddess of Intellect.

This Saraswati Kavacham was told by Lord Brahma and is a very powerful Kavach. It is believed that who practices this Saraswati Kavach becomes 'Brihaspati' the devta of wisdom and all knowledge and all of his desires are fulfilled.


ब्रह्मोवाच ।
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ 

उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे वै रासमण्डले ॥ 

अतीव गोपनीयं च कल्पवृक्षसमं परम् ।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ 

यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ॥ 

पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः ।
स्वायंभुवो मनुश्चैव यद्धृत्वा सार्वपूजितः ॥ 

कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ 

धृत्वा वेदविभागं च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ 

शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः  ॥ 

ऋष्यशृङ्गो भरद्वाजश्चाऽऽस्तीको देवलस्तथा ।
जैगीषव्योऽथ जाबालिर्यत्द्धृत्वा सर्वपूजितः ॥ 

कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।
स्वयं बॄहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः  ॥ 

सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ 

ओं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ॥ 

ओं सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।
ओं श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ॥ 

ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा ओष्ठं सदाऽवतु ॥ 

ओं श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तौः सदाऽवतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु  ॥ 

ओं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।
श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ॥ 

ओं ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ओं ह्रीं ह्रीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ॥ 

ओं सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।
ओं रागधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु ॥ 

ओं सर्वकण्ठवासिन्यै स्वाहा प्रच्यां सदाऽवतु ।
ओं ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु ॥ 

ओं ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ॥ 

ओं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरॄत्यां मे सदाऽवतु ।
कविजिह्वाग्रवासिन्यै स्वाहा पातु मां वारुणेऽवतु ॥ 

ओं सदम्बकायै स्वाहा वायव्यै मां सदाऽवस्तु ।
ओं गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ 

ओं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।
ओं ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ॥ 

ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।
ओं ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ॥ 

इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मारूपकम् ॥ 

पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्ध्मादने ।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ 

गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः ।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः  ॥ 

पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥ 

महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्व्ं जेतुं स कवचस्य प्रभावतः ॥ 

इदं ते काण्वशाखोक्तं कथितं कवचं मुने ।
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ॥ 

इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे
सरस्वतीकवचं नाम चतुर्थोऽध्यायः ॥

Click Here For The Audio of The Saraswati Kavach

Some Useful Saraswati Mantra
Mantra To Be Creative & Artistic
Mantra For Success In Career
Mantra To Excel In Studies
Saraswati Mantra For A Superb Memory
Saraswati Kavach


Print Friendly and PDF